|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.74. अध्यायः 074
Mahabharata - Drona Parva - Chapter Topics
अर्जुनप्रतिज्ञाश्रवणचकितस्य जयद्रथस्य द्रोणतुर्योधनाश्यासनम्॥ 1 ॥

Mahabharata - Drona Parva - Chapter Text
सञ्जय उवाच। 7-74-0x(4452)(47487)
श्रुत्वा तु तं महाशब्दं पाण्डूनां पुत्रगृद्धिनाम्।
चारैः प्रवेदितस्त्रस्तः समुत्थाय जयद्रथः॥ 7-74-1(47488)
शोकसम्मूढहृदयो दुःखेनाभ्याहतो भृशम्।
मज्जमान इवागाधे विपुले शोकसागरे।
जगाम समितिं राज्ञां सैन्धवो विमृशन्बहु॥ 7-74-2(47489)
स तेषां नरदेवानां सकाशे पर्यदेवयत्।
अभिमन्युपितुर्भीतः सव्रीडो वाक्यमब्रवीत्॥ 7-74-3(47490)
योऽसौ पाण्डोः किल क्षेत्रे जातः शक्रेण कामिना।
स निनीषति दुर्बुद्धिर्मां किलैकं यमक्षयम्॥ 7-74-4(47491)
स्वस्ति वोऽस्तु गमिष्यामि स्वगृहं जीवितेप्सया। 7-74-5(47492)
अथवास्त्रप्रतिबलास्त्रात मां क्षत्रियर्षभाः।
पार्थेन प्रार्थितं वीरास्ते सन्दत्त ममाभयम्॥ 7-74-6(47493)
द्रोणदुर्योधनकृपाः कर्णमद्रेशबाह्लिकाः।
दुःशासनादयः शक्तास्त्रातुमप्यन्तकार्दितम्॥ 7-74-7(47494)
किमङ्ग पुनरेकेन फल्गुनेन जिघांसता।
न त्रास्यन्ति भवन्तो मां समस्ताः पतयः क्षितेः॥ 7-74-8(47495)
प्रतिज्ञां पाण्डवेयानां श्रुत्वा मम महद्भयम्।
सीदन्ति मम गात्राणि मुमूर्षोरिव पार्थिवाः॥ 7-74-9(47496)
वधो नूनं प्रतिज्ञातो मम गाण्डीवधन्वना।
तथाहि हृष्टाः क्रोशन्ति शोककालेऽपि पाण्डवाः॥ 7-74-10(47497)
तन्न देवा न गन्धर्वा नासुरोरगराक्षसाः।
उत्सहन्तेऽन्यथा कर्तुं कुत एव नराधिपाः॥ 7-74-11(47498)
तस्मान्मामनुजानीत भद्रं वोऽस्तु नरर्षभाः।
अदर्शनं गमिष्यामि न मां द्रक्ष्यन्ति पाण्डवाः॥ 7-74-12(47499)
सञ्जय उवाच। 7-74-13x(4453)
एवं विलपमानं तं भयाद्व्याकुलचेतसम्।
आत्मकार्यगरीयस्त्वाद्राजा दुर्योधनोऽब्रवीत्॥ 7-74-13(47500)
न भेतव्यं नरव्याघ्र को हि त्वां पुरुषर्षभ।
मध्ये क्षत्रियवीराणां तिष्ठन्तं प्रार्थयेद्युधि॥ 7-74-14(47501)
`एतेषां नरदेवानां मत्तमातङ्गगामिनाम्।
सङ्घातमुपयातानामपि विभ्येत्पुरन्दरः'॥ 7-74-15(47502)
अहं वैकर्तनः कर्णश्चित्रसेनो विविंशतिः।
भूरिश्रवाः शलः शल्यो वृषसेनो दुरासदः॥ 7-74-16(47503)
पुरुमित्रो जयो भोजः काम्भोजश्च सुदक्षिणः।
सत्यव्रतो महाबाहुर्विकर्णो दुर्मुखश्च ह॥ 7-74-17(47504)
दुःशासनः सुबाहुश्च कालिङ्गश्चाप्युदायुधः।
विन्दानुविन्दावावन्त्यौ द्रोणो द्रौणिश्च सौबलः॥ 7-74-18(47505)
`मायावी बलवाञ्छूरो राक्षसश्चाप्यलम्बुसः'।
एते चान्ये च बहवो नानाजनपदेश्वराः।
ससैन्यास्त्वाभिगोप्स्यन्ति व्येतु ते मानसो ज्वरः॥ 7-74-19(47506)
त्वं चापि रथिनां श्रेष्ठः स्वयं शूरोऽमितद्युते।
स कथं पाण्डवेयेभ्यो भयं पश्यसि वैन्धव॥ 7-74-20(47507)
अक्षौहिण्यो महावीर्य मदीयास्तव रक्षणे।
यत्ता योत्स्यन्ति माभैस्त्वं सैन्धव व्येतु ते भयम्॥ 7-74-21(47508)
सञ्जय उवाच। 7-74-22x(4454)
एवमाश्वासितो राजन्पुत्रेण तव सैन्धवः।
दुर्योधनेन सहितो द्रोणं रात्रावुपागमत्॥ 7-74-22(47509)
उपसङ्गृह्य चरणौ द्रोणाय स विशाम्पतिः।
उपोपविश्य प्रणतः पर्यपृच्छदिदं वचः॥ 7-74-23(47510)
निमित्ते दूरपातित्वे लघुत्वे दृढवेधने।
मम ब्रवीतु भगवान्विशेषं फल्गुनस्य च॥ 7-74-24(47511)
विद्याविशेषमिच्छामि ज्ञातुमाचार्य तत्त्वतः।
अर्जुनस्यात्मनश्चैव याथातथ्यं प्रचक्ष्व मे॥ 7-74-25(47512)
द्रोण उवाच। 7-74-26x(4455)
सममाचार्यकं तात तव चैवार्जुनस्य च।
योगाद्दुःखोषितत्वाच्च तस्मात्त्वत्तोऽधिकोऽर्जुनः॥ 7-74-26(47513)
न तु ते युधि सन्त्रासः कार्यः पार्थात्कथञ्चन।
अहं हि रक्षिता तात भयात्त्वां नात्र संशयः॥ 7-74-27(47514)
न हि मद्बाहुगुप्तस्य प्रभवन्त्यमरा अपि।
व्यूहयिष्यामि तं व्यूहं यं पार्थो न तरिष्यति॥ 7-74-28(47515)
तस्माद्युध्यस्व माभैस्त्वं स्वधर्ममनुपालय।
पितृपैतामहं मार्गमनुयाहि महारथ॥ 7-74-29(47516)
अधीता विधिवद्वेदा अग्नयः सुहुतास्त्वया।
इष्टं च बहुभिर्यज्ञैर्न ते मृत्युर्भयङ्करः॥ 7-74-30(47517)
दुर्लभं मानुषैर्मन्दैर्महाभाग्यमवाप्य तु।
भुजवीर्यार्जिताँल्लोकान्दिव्यान्प्राप्स्यस्यनुत्तमान्॥ 7-74-31(47518)
कुरवः पाण्डवाश्चैव वृष्णयोऽन्ये च मानवाः।
अहं च सहपुत्रेण अध्रुवा इति चिन्त्यताम्॥ 7-74-32(47519)
पर्यायेण वयं सर्वे कालेन बलिना हताः।
परलोकं गमिष्यामः स्वैःस्वैः कर्मभिरन्विताः॥ 7-74-33(47520)
तपस्तप्त्वा तु याँल्लोकान्प्राप्नुवन्ति तपस्विनः।
क्षत्रधर्माश्रिताः वीराः क्षत्रियाः प्राप्नुवन्ति तान्॥ 7-74-34(47521)
एवमाश्वासितो राजा भारद्वाजेन सैन्धवः।
अपानुदद्भयं पार्थाद्युद्धाय च मनो दधे॥ 7-74-35(47522)
ततः प्रहर्षः सैन्यानां तस्य चासीद्विशाम्पते।
वादित्राणां ध्वनिश्चोग्रः सिंहनादरवैः सह॥ ॥ 7-74-36(47523)
इति श्रीमन्महाभारते द्रोणपर्वणि प्रतिज्ञापर्वणि चतुःसप्ततितमोऽध्यायः॥ 74 ॥
Mahabharata - Drona Parva - Chapter Footnotes
5-74-4 किलेत्यरुचौ॥ 5-74-5 स्वगृहाज्जीवितेप्सया इति ङ. पाठः॥ 5-74-6 पार्थेन पार्थिवा वीरास्तंद्ददध्वं ममाभयम् इति क.ट.पाठः॥ 5-74-24 निमित्ते लक्ष्यभेदने॥ 5-74-26 योगादभ्यासात्। दुःखोचितत्वाच्च इति क.ट.ङ.पाठः॥ 5-74-30 मृत्युभवं भयम् इति क.पाठः॥ 5-74-74 चतुःसप्ततितमोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|